Mahakatha

Chapter 15 · 20 Verses

Purushottama Yoga

पुरुषोत्तमयोग

The Supreme Divine Personality

The universe is like an inverted Ashvattha tree — cut its roots with the sword of non-attachment. Krishna reveals he is the Purushottama, the Supreme Person beyond both the perishable and imperishable.

15.1

श्री भगवानुवाचऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्15.1

śhrī-bhagavān uvācha

contemplative Attachment & Letting Go
15.2

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाःअधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके15.2

adhaśh chordhvaṁ prasṛitās tasya śhākhā

philosophical Attachment & Letting Go
15.3

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठाअश्वत्थमेनं सुविरूढमूल मसङ्गशस्त्रेण दृढेन छित्त्वा15.3

na rūpam asyeha tathopalabhyate

philosophical Attachment & Letting Go
15.4

ततः पदं तत्परिमार्गितव्य यस्मिन्गता न निवर्तन्ति भूयःतमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी15.4

tataḥ padaṁ tat parimārgitavyaṁ

devotional Attachment & Letting Go
15.5

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाःद्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै र्गच्छन्त्यमूढाः पदमव्ययं तत्15.5

nirmāna-mohā jita-saṅga-doṣhā

transformative Attachment & Letting Go
15.6

न तद्भासयते सूर्यो न शशाङ्को न पावकःयद्गत्वा न निवर्तन्ते तद्धाम परमं मम15.6

na tad bhāsayate sūryo na śhaśhāṅko na pāvakaḥ

contemplative Attachment & Letting Go
15.7

ममैवांशो जीवलोके जीवभूतः सनातनःमनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति15.7

mamaivānśho jīva-loke jīva-bhūtaḥ sanātanaḥ

devotional anxiety
15.8

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरःगृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्15.8

śharīraṁ yad avāpnoti yach chāpy utkrāmatīśhvaraḥ

serene Attachment & Letting Go
15.9

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव चअधिष्ठाय मनश्चायं विषयानुपसेवते15.9

śhrotraṁ chakṣhuḥ sparśhanaṁ cha rasanaṁ ghrāṇam eva cha

contemplative anxiety
15.10

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः15.10

utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam

philosophical Self & Identity
15.11

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः15.11

yatanto yoginaśh chainaṁ paśhyanty ātmany avasthitam

contemplative anxiety
15.12

यदादित्यगतं तेजो जगद्भासयतेऽखिलम्यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्15.12

yad āditya-gataṁ tejo jagad bhāsayate ’khilam

contemplative anxiety
15.13

गामाविश्य च भूतानि धारयाम्यहमोजसापुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः15.13

gām āviśhya cha bhūtāni dhārayāmy aham ojasā

devotional Attachment & Letting Go
15.14

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितःप्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्15.14

ahaṁ vaiśhvānaro bhūtvā prāṇināṁ deham āśhritaḥ

devotional anxiety
15.15

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं चवेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्15.15

sarvasya chāhaṁ hṛidi sanniviṣhṭo

devotional anxiety
15.16

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव चक्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते15.16

dvāv imau puruṣhau loke kṣharaśh chākṣhara eva cha

philosophical Attachment & Letting Go
15.17

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतःयो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः15.17

uttamaḥ puruṣhas tv anyaḥ paramātmety udāhṛitaḥ

contemplative Self & Identity
15.18

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमःअतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः15.18

yasmāt kṣharam atīto ’ham akṣharād api chottamaḥ

philosophical Self & Identity
15.19

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्स सर्वविद्भजति मां सर्वभावेन भारत15.19

yo mām evam asammūḍho jānāti puruṣhottamam

transformative Self & Identity
15.20

इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघएतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत15.20

iti guhyatamaṁ śhāstram idam uktaṁ mayānagha

transformative Jnana & Wisdom