Chapter 16 · 24 Verses
Daivasura Sampad Vibhaga Yoga
दैवासुरसम्पद्विभागयोग
Divine & Demoniac Natures
Krishna describes two types of human nature — divine (fearlessness, purity, compassion) and demoniac (pride, arrogance, delusion). The divine nature leads to liberation; the demoniac to bondage.
श्री भगवानुवाच
śhrī-bhagavān uvācha
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्16.2
ahinsā satyam akrodhas tyāgaḥ śhāntir apaiśhunam
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता
tejaḥ kṣhamā dhṛitiḥ śhaucham adroho nāti-mānitā
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव चअज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्16.4
dambho darpo ’bhimānaśh cha krodhaḥ pāruṣhyam eva cha
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मतामा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव16.5
daivī sampad vimokṣhāya nibandhāyāsurī matā
द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव चदैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श्रृणु16.6
dvau bhūta-sargau loke ’smin daiva āsura eva cha
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराःन शौचं नापि चाचारो न सत्यं तेषु विद्यते16.7
pravṛittiṁ cha nivṛittiṁ cha janā na vidur āsurāḥ
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्अपरस्परसम्भूतं किमन्यत्कामहैतुकम्16.8
asatyam apratiṣhṭhaṁ te jagad āhur anīśhvaram
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयःप्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः16.9
etāṁ dṛiṣhṭim avaṣhṭabhya naṣhṭātmāno ’lpa-buddhayaḥ
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताःमोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः16.10
kāmam āśhritya duṣhpūraṁ dambha-māna-madānvitāḥ
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताःकामोपभोगपरमा एतावदिति निश्िचताः16.11
chintām aparimeyāṁ cha pralayāntām upāśhritāḥ
आशापाशशतैर्बद्धाः कामक्रोधपरायणाःईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्16.12
āśhā-pāśha-śhatair baddhāḥ kāma-krodha-parāyaṇāḥ
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्इदमस्तीदमपि मे भविष्यति पुनर्धनम्16.13
idam adya mayā labdham imaṁ prāpsye manoratham
असौ मया हतः शत्रुर्हनिष्ये चापरानपिईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी16.14
asau mayā hataḥ śhatrur haniṣhye chāparān api
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मयायक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः16.15
āḍhyo ’bhijanavān asmi ko ’nyo ’sti sadṛiśho mayā
अनेकचित्तविभ्रान्ता मोहजालसमावृताःप्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ16.16
aneka-citta-vibhrāntā moha-jāla-samāvṛtāḥ prasaktāḥ kāma-bhogeṣu patanti narake 'śucau
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताःयजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्16.17
ātma-sambhāvitāḥ stabdhā dhana-māna-madānvitāḥ
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताःमामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः16.18
ahankāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ cha sanśhritāḥ
तानहं द्विषतः क्रूरान्संसारेषु नराधमान्क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु16.19
tān ahaṁ dviṣhataḥ krūrān sansāreṣhu narādhamān
असुरीं योनिमापन्ना मूढा जन्मनि जन्मनिमामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्16.20
āsurīṁ yonim āpannā mūḍhā janmani janmani
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनःकामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्16.21
tri-vidhaṁ narakasyedaṁ dvāraṁ nāśhanam ātmanaḥ
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरःआचरत्यात्मनः श्रेयस्ततो याति परां गतिम्16.22
etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतःन स सिद्धिमवाप्नोति न सुखं न परां गतिम्16.23
yaḥ śhāstra-vidhim utsṛijya vartate kāma-kārataḥ
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि16.24
tasmāch chhāstraṁ pramāṇaṁ te kāryākārya-vyavasthitau
No verses match this theme.