Mahakatha

Chapter 17 · 28 Verses

Sraddhatraya Vibhaga Yoga

श्रद्धात्रयविभागयोग

The Three Divisions of Faith

Every person's faith, food, sacrifice, and austerity reflect their dominant guna. Sattvic faith is clear, focused, and leads to growth. Actions without faith and without Om-Tat-Sat are fruitless.

17.1

अर्जुन उवाचये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताःतेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः17.1

arjuna uvācha

philosophical faith-doubt
→
17.2

श्री भगवानुवाचत्रिविधा भवति श्रद्धा देहिनां सा स्वभावजासात्त्विकी राजसी चैव तामसी चेति तां श्रृणु17.2

śhrī-bhagavān uvācha

contemplative faith-doubt
→
17.3

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारतश्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः17.3

sattvānurūpā sarvasya śhraddhā bhavati bhārata

contemplative faith-doubt
→
17.4

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाःप्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः17.4

yajante sāttvikā devān yakṣha-rakṣhānsi rājasāḥ

philosophical three-gunas
→
17.5

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाःदम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः17.5

aśhāstra-vihitaṁ ghoraṁ tapyante ye tapo janāḥ

urgent ego-release
→
17.6

कर्षयन्तः शरीरस्थं भूतग्राममचेतसःमां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान्17.6

karṣhayantaḥ śharīra-sthaṁ bhūta-grāmam achetasaḥ

philosophical anxiety
→
17.7

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियःयज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु17.7

āhāras tv api sarvasya tri-vidho bhavati priyaḥ

contemplative three-gunas
→
17.8

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाःरस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः17.8

āyuḥ-sattva-balārogya-sukha-prīti-vivardhanāḥ

serene anxiety
→
17.9

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनःआहारा राजसस्येष्टा दुःखशोकामयप्रदाः17.9

kaṭv-amla-lavaṇāty-uṣhṇa- tīkṣhṇa-rūkṣha-vidāhinaḥ

philosophical anxiety
→
17.10

यातयामं गतरसं पूति पर्युषितं च यत्उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्17.10

yāta-yāmaṁ gata-rasaṁ pūti paryuṣhitaṁ cha yat

transformative spouse-addiction
→
17.11

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यतेयष्टव्यमेवेति मनः समाधाय स सात्त्विकः17.11

aphalākāṅkṣhibhir yajño vidhi-driṣhṭo ya ijyate

surrendering Karma & Action
→
17.12

अभिसंधाय तु फलं दम्भार्थमपि चैव यत्इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्17.12

abhisandhāya tu phalaṁ dambhārtham api chaiva yat

contemplative ego-release
→
17.13

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्श्रद्धाविरहितं यज्ञं तामसं परिचक्षते17.13

vidhi-hīnam asṛiṣhṭānnaṁ mantra-hīnam adakṣhiṇam

contemplative Bhakti & Devotion
→
17.14

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते17.14

deva-dwija-guru-prājña- pūjanaṁ śhaucham ārjavam

devotional anxiety
→
17.15

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते17.15

anudvega-karaṁ vākyaṁ satyaṁ priya-hitaṁ cha yat

philosophical anger-release
→
17.16

मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहःभावसंशुद्धिरित्येतत्तपो मानसमुच्यते17.16

manaḥ-prasādaḥ saumyatvaṁ maunam ātma-vinigrahaḥ

serene anxiety
→
17.17

श्रद्धया परया तप्तं तपस्तत्ित्रविधं नरैःअफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते17.17

śhraddhayā parayā taptaṁ tapas tat tri-vidhaṁ naraiḥ

transformative Attachment & Letting Go
→
17.18

सत्कारमानपूजार्थं तपो दम्भेन चैव यत्क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्17.18

satkāra-māna-pūjārthaṁ tapo dambhena chaiva yat

philosophical ego-release
→
17.19

मूढग्राहेणात्मनो यत्पीडया क्रियते तपःपरस्योत्सादनार्थं वा तत्तामसमुदाहृतम्17.19

mūḍha-grāheṇātmano yat pīḍayā kriyate tapaḥ

contemplative forgiveness-self
→
17.20

दातव्यमिति यद्दानं दीयतेऽनुपकारिणेदेशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्17.20

dātavyam iti yad dānaṁ dīyate ‘nupakāriṇe

contemplative forgiveness-other
→
17.21

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनःदीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्17.21

yat tu pratyupakārārthaṁ phalam uddiśhya vā punaḥ

contemplative forgiveness-other
→
17.22

अदेशकाले यद्दानमपात्रेभ्यश्च दीयतेअसत्कृतमवज्ञातं तत्तामसमुदाहृतम्17.22

adeśha-kāle yad dānam apātrebhyaśh cha dīyate

philosophical ego-release
→
17.23

तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतःब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा17.23

oṁ tat sad iti nirdeśho brahmaṇas tri-vidhaḥ smṛitaḥ

devotional Dharma & Duty
→
17.24

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाःप्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्17.24

tasmād oṁ ity udāhṛitya yajña-dāna-tapaḥ-kriyāḥ

devotional Karma & Action
→
17.25

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाःदानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षि17.25

tad ity anabhisandhāya phalaṁ yajña-tapaḥ-kriyāḥ

transformative Karma & Action
→
17.26

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यतेप्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते17.26

sad-bhāve sādhu-bhāve cha sad ity etat prayujyate

transformative Dharma & Duty
→
17.27

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यतेकर्म चैव तदर्थीयं सदित्येवाभिधीयते17.27

yajñe tapasi dāne cha sthitiḥ sad iti chochyate

devotional Karma & Action
→
17.28

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह17.28

aśhraddhayā hutaṁ dattaṁ tapas taptaṁ kṛitaṁ cha yat

philosophical faith-doubt
→