Mahakatha

Chapter 14 · 27 Verses

Gunatraya Vibhaga Yoga

गुणत्रयविभागयोग

The Three Modes of Material Nature

All nature operates through three gunas — Tamas (inertia), Rajas (passion), and Sattva (clarity). The liberated soul transcends all three and remains unchanging.

14.1

श्री भगवानुवाचपरं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः14.1

śhrī-bhagavān uvācha

devotional anxiety
14.2

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताःसर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च14.2

idaṁ jñānam upāśhritya mama sādharmyam āgatāḥ

serene Attachment & Letting Go
14.3

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्संभवः सर्वभूतानां ततो भवति भारत14.3

mama yonir mahad brahma tasmin garbhaṁ dadhāmy aham

contemplative Attachment & Letting Go
14.4

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याःतासां ब्रह्म महद्योनिरहं बीजप्रदः पिता14.4

sarva-yoniṣhu kaunteya mūrtayaḥ sambhavanti yāḥ

philosophical Self & Identity
14.5

सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाःनिबध्नन्ति महाबाहो देहे देहिनमव्ययम्14.5

sattvaṁ rajas tama iti guṇāḥ prakṛiti-sambhavāḥ

philosophical anxiety
14.6

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ14.6

tatra sattvaṁ nirmalatvāt prakāśhakam anāmayam

contemplative Attachment & Letting Go
14.7

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्14.7

rajo rāgātmakaṁ viddhi tṛiṣhṇā-saṅga-samudbhavam

transformative Attachment & Letting Go
14.8

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत14.8

tamas tv ajñāna-jaṁ viddhi mohanaṁ sarva-dehinām

contemplative anxiety
14.9

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारतज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत14.9

sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata

philosophical three-gunas
14.10

रजस्तमश्चाभिभूय सत्त्वं भवति भारतरजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा14.10

rajas tamaśh chābhibhūya sattvaṁ bhavati bhārata

contemplative three-gunas
14.11

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायतेज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत14.11

sarva-dvāreṣhu dehe ’smin prakāśha upajāyate

contemplative anxiety
14.12

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहारजस्येतानि जायन्ते विवृद्धे भरतर्षभ14.12

lobhaḥ pravṛittir ārambhaḥ karmaṇām aśhamaḥ spṛihā

contemplative anxiety
14.13

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव चतमस्येतानि जायन्ते विवृद्धे कुरुनन्दन14.13

aprakāśho ’pravṛittiśh cha pramādo moha eva cha

contemplative depression
14.14

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्तदोत्तमविदां लोकानमलान्प्रतिपद्यते14.14

yadā sattve pravṛiddhe tu pralayaṁ yāti deha-bhṛit

transformative three-gunas
14.15

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायतेतथा प्रलीनस्तमसि मूढयोनिषु जायते14.15

rajasi pralayaṁ gatvā karma-saṅgiṣhu jāyate

contemplative Karma & Action
14.16

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्रजसस्तु फलं दुःखमज्ञानं तमसः फलम्14.16

karmaṇaḥ sukṛitasyāhuḥ sāttvikaṁ nirmalaṁ phalam

philosophical Karma & Action
14.17

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव चप्रमादमोहौ तमसो भवतोऽज्ञानमेव च14.17

sattvāt sañjāyate jñānaṁ rajaso lobha eva cha

philosophical three-gunas
14.18

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाःजघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः14.18

ūrdhvaṁ gachchhanti sattva-sthā madhye tiṣhṭhanti rājasāḥ

philosophical three-gunas
14.19

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यतिगुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति14.19

nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣhṭānupaśhyati

transformative ego-release
14.20

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते14.20

guṇān etān atītya trīn dehī deha-samudbhavān

transformative anxiety
14.21

अर्जुन उवाचकैर्लिंगैस्त्रीन्गुणानेतानतीतो भवति प्रभोकिमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते14.21

arjuna uvācha

contemplative three-gunas
14.22

श्री भगवानुवाचप्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डवन द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति14.22

śhrī-bhagavān uvācha

serene anxiety
14.23

उदासीनवदासीनो गुणैर्यो न विचाल्यतेगुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते14.23

udāsīna-vad āsīno guṇair yo na vichālyate

serene Attachment & Letting Go
14.24

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनःतुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः14.24

sama-duḥkha-sukhaḥ sva-sthaḥ sama-loṣhṭāśhma-kāñchanaḥ

serene anxiety
14.25

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोःसर्वारम्भपरित्यागी गुणातीतः स उच्यते14.25

mānāpamānayos tulyas tulyo mitrāri-pakṣhayoḥ

transformative ego-release
14.26

मां च योऽव्यभिचारेण भक्ितयोगेन सेवतेस गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पते14.26

māṁ cha yo ’vyabhichāreṇa bhakti-yogena sevate

transformative ego-release
14.27

ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य चशाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च14.27

brahmaṇo hi pratiṣhṭhāham amṛitasyāvyayasya cha

devotional anxiety