Chapter 13 · 35 Verses
Ksetra Ksetrajna Vibhaaga Yoga
क्षेत्रक्षेत्रज्ञविभागयोग
The Field & the Knower of the Field
The body is the field; the soul is the knower. Krishna defines true knowledge as understanding this distinction — and the qualities (humility, compassion, steadiness) that lead to it.
अर्जुन उवाच
arjuna uvācha
श्री भगवानुवाचइदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयतेएतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः13.2
śhrī-bhagavān uvācha
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
kṣhetra-jñaṁ chāpi māṁ viddhi sarva-kṣhetreṣhu bhārata
तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत्स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु13.4
tat kṣhetraṁ yach cha yādṛik cha yad-vikāri yataśh cha yat
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्िचतैः13.5
ṛiṣhibhir bahudhā gītaṁ chhandobhir vividhaiḥ pṛithak
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव चइन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः13.6
mahā-bhūtāny ahankāro buddhir avyaktam eva cha
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतनाधृतिःएतत्क्षेत्रं समासेन सविकारमुदाहृतम्13.7
ichchhā dveṣhaḥ sukhaṁ duḥkhaṁ saṅghātaśh chetanā dhṛitiḥ
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः13.8
amānitvam adambhitvam ahinsā kṣhāntir ārjavam
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव चजन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्13.9
indriyārtheṣhu vairāgyam anahankāra eva cha
असक्ितरनभिष्वङ्गः पुत्रदारगृहादिषुनित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु13.10
asaktir anabhiṣhvaṅgaḥ putra-dāra-gṛihādiṣhu
मयि चानन्ययोगेन भक्ितरव्यभिचारिणीविविक्तदेशसेवित्वमरतिर्जनसंसदि13.11
mayi chānanya-yogena bhaktir avyabhichāriṇī
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोन्यथा13.12
adhyātma-jñāna-nityatvaṁ tattva-jñānārtha-darśhanam
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुतेअनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते13.13
jñeyaṁ yat tat pravakṣhyāmi yaj jñātvāmṛitam aśhnute
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति13.14
sarvataḥ pāṇi-pādaṁ tat sarvato ’kṣhi-śhiro-mukham
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च13.15
sarvendriya-guṇābhāsaṁ sarvendriya-vivarjitam
बहिरन्तश्च भूतानामचरं चरमेव चसूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्13.16
bahir antaśh cha bhūtānām acharaṁ charam eva cha
अविभक्तं च भूतेषु विभक्तमिव च स्थितम्भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च13.17
avibhaktaṁ cha bhūteṣhu vibhaktam iva cha sthitam
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यतेज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्13.18
jyotiṣhām api taj jyotis tamasaḥ param uchyate
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतःमद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते13.19
iti kṣhetraṁ tathā jñānaṁ jñeyaṁ choktaṁ samāsataḥ
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपिविकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान्13.20
prakṛitiṁ puruṣhaṁ chaiva viddhy anādī ubhāv api
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यतेपुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते13.21
kārya-kāraṇa-kartṛitve hetuḥ prakṛitir uchyate
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु13.22
puruṣhaḥ prakṛiti-stho hi bhuṅkte prakṛiti-jān guṇān
उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरःपरमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः13.23
upadraṣhṭānumantā cha bhartā bhoktā maheśhvaraḥ
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैःसहसर्वथा वर्तमानोऽपि न स भूयोऽभिजायते13.24
ya evaṁ vetti puruṣhaṁ prakṛitiṁ cha guṇaiḥ saha
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मनाअन्ये सांख्येन योगेन कर्मयोगेन चापरे13.25
dhyānenātmani paśhyanti kechid ātmānam ātmanā
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासतेतेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः13.26
anye tv evam ajānantaḥ śhrutvānyebhya upāsate
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ13.27
yāvat sañjāyate kiñchit sattvaṁ sthāvara-jaṅgamam
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति13.28
samaṁ sarveṣhu bhūteṣhu tiṣhṭhantaṁ parameśhvaram
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम्13.29
samaṁ paśhyan hi sarvatra samavasthitam īśhvaram
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशःयः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति13.30
prakṛityaiva cha karmāṇi kriyamāṇāni sarvaśhaḥ
यदा भूतपृथग्भावमेकस्थमनुपश्यतितत एव च विस्तारं ब्रह्म सम्पद्यते तदा13.31
yadā bhūta-pṛithag-bhāvam eka-stham anupaśhyati
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययःशरीरस्थोऽपि कौन्तेय न करोति न लिप्यते13.32
anāditvān nirguṇatvāt paramātmāyam avyayaḥ
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यतेसर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते13.33
yathā sarva-gataṁ saukṣhmyād ākāśhaṁ nopalipyate
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविःक्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत13.34
yathā prakāśhayaty ekaḥ kṛitsnaṁ lokam imaṁ raviḥ
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषाभूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्13.35
kṣhetra-kṣhetrajñayor evam antaraṁ jñāna-chakṣhuṣhā
No verses match this theme.